Proofing

This page has not been fully proofread.

एकादशः खण्डः ॥
 
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः खमं
न विजानात्येष आत्मेति होवाचैतदमृत-
मभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रव-
ब्राज स हाप्राप्यैव देवानेतद्भयं ददर्श
नाह खल्वयमेव संप्रत्यात्मानं जाना-
त्ययमहमस्मीति नो एवेमानि भूतानि
विनाशमेवापीतो भवति नाहमत्र भोग्यं
पश्यामीति ॥ १ ॥
 
स समित्पाणिः पुनरेयाय त ह
प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रा-
ब्राजीः किमिच्छन्पुनरागम इति स हो-
वाच नाह खल्वयं भगव एव संप्रत्या-
त्मानं जानात्ययमहमस्मीति नो एवे-