2026-05-06 06:21:47 by ambuda-bot
This page has not been fully proofread.
५२६
छान्दोग्योपनिषद्भाष्ये
[ख.
तस्मात् न च्छायात्मा प्रजापतिनोक्त इति मन्यते । तथा च
व्याख्यातम् - द्रष्टा अक्षिणि दृश्यत इति । तथा विच्छादयन्तीव
विद्रावयन्तीव, तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भ-
वति । अपि च स्वयमपि रोदितीव । ननु अप्रियं
वेत्येव, कथं वेत्तेवेति, उच्यते—न, अमृताभयत्ववचनानुप-
पत्ते:, ' ध्यायतीव' इति च श्रुत्यन्तरात् । ननु प्रत्यक्षवि -
रोध इति चेत्, न, शरीरात्मत्वप्रत्यक्षवद्भान्तिसंभवात् ।
तिष्ठतु तावदप्रियवेत्तेव न वेति । नाहमत्र भोग्यं पश्यामि ।
स्वप्नात्मज्ञानेऽपि इष्टं फलं नोपलभे इत्यभिप्रायः । एवमेवैषः
तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्या-
भिप्रेतत्वात् । द्विरुक्तमपि न्यायतो मया यथावन्नावधारय-
ति; तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति
मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्म-
चर्यम् इत्यादिदेश प्रजापतिः । तथा उषितवते श्रपित
कल्मषाय आह ॥
इति दशमखण्डभाष्यम् ॥