Proofing

This page has not been fully proofread.

१०.]
 
अष्टमोऽध्यायः ।
 
५२५
 
हापराणि द्वात्रिश्शतं वर्षाण्युवास तस्मै
 
होवाच ॥। ४ ॥
 
इति दशमः खण्डः ॥
 
नापि अस्य वधेन स हन्यते छायात्मवत् । न च अस्य-
स्त्राम्येण स्राम: स्वप्नात्मा भवति । यदध्यायादौ आगममा-
त्रेणोपन्यस्तम्— 'नास्य जरयैतज्जीर्यति' इत्यादि, तदिह
न्यायेनोपपादयितुमुपन्यस्तम् । न तावदयं छायात्मव देहदो-
षयुक्तः, किं तु न्नन्ति त्वेव एनम् । एव-शब्दः इवार्थे । न-
न्तीवैनं केचनेति द्रष्टव्यम्, न तु नन्त्येवेति, उत्तरेषु स-
वैष्विवशब्ददर्शनात् । नास्य वधेन हन्यत इति विशेषणात्
घ्नन्ति त्वेवेति चेत्, नैवम् । प्रजापतिं प्रमाणीकुर्वतः अनृत-
वादित्वापादनानुपपत्तेः । ' एतदमृतम्' इत्येतत्प्रजापतिवचनं
कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन् । ननु च्छायापुरुषे प्र-
जापतिनोक्ते 'अस्य शरीरस्य नाशमन्वेष नश्यति' इति दोष-
मभ्यदधात्, तथेहापि स्यात् । नैवम् । कस्मात् ? ' य एषोऽ-
क्षिणि पुरुषो दृश्यते' इति न च्छायात्मा प्रजापतिनोक्त इति
मन्यते मघवान् । कथम् ? अपहतपाप्मादिलक्षणे पृष्ठे यदि
च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्र-
माणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् ? जगाम च ।