Proofing

This page has not been fully proofread.

दशमः खण्डः ॥
 
य एष स्वमे महीयमानश्वरत्येष आ-
त्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स
ह शान्तहृदयः प्रववाज स हाप्राप्यैव
देवानेतद्भयं ददर्श तद्यद्यपीद शरीरम-
न्धं भवत्यनन्धः स भवति यदि स्राम-
मस्स्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
 
2
 
य आत्मापहतपाप्मादिलक्षणः 'य एषोऽक्षिणि' इत्या-
दिना व्याख्यात एष सः । कोऽसौ ? य: स्वप्ने महीयमान:
त्र्यादिभिः पूज्यमानश्चरति अनेकविधान्स्वप्नभोगाननुभवती-
त्यर्थः । एष आत्मेति ह उवाच इत्यादि समानम् । स ह
एवमुक्तः इन्द्रः शान्तहृदयः प्रवव्राज । स ह अप्राप्यैव
देवान् पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श । कथम्? तदिदं
शरीरं यद्यप्यन्धं भवति, स्वप्नात्मा यः अनन्धः स भवति ।
यदि स्त्राममिदं शरीरम्, अस्रामश्च सं भवति । नैवैष स्वप्नात्मा
अस्य देहख दोषेण दुष्यति ॥