Proofing

This page has not been fully proofread.

५२२
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
न च्छया - तद्वदिति विरोचनाभिप्रायः । स्वचित्तगुणदोष-
वशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं
' दाम्यत दत्त दयध्वम्' इति दकारमात्रश्रवणाच्छ्रुत्यन्तरे ।
निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥
 
एवमेवैष मघवन्निति होवाचैतं त्वेच
ते भूयोऽनुव्याख्यास्यामि वसापराणि
द्वात्रिशतं वर्षाणीति स हापराणि द्वा-
त्रिशतं वर्षाण्युवास तस्मै होवाच ॥
इति. नवमः खण्डः ॥
 
एवमेवैष मघवन्, सम्यक्त्वया अवगतम्,
न च्छाया
आत्मा - इत्युवाच प्रजापतिः । यो मयोक्त आत्मा प्रकृतः,
एतमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्या-
स्यामि । यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं
प्राप्तमपि नाग्रही:, अतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थ्य-
स्त्वम् । अतस्तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि -
इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच ॥
 
इति नवमखण्डभाष्यम् ॥