Proofing

This page has not been fully proofread.

s.]
 
अष्टमोऽध्यायः ।
 
५२१
 
एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणि:
ब्रह्मचर्यं वस्तुं पुनरेयाय । तं ह प्रजापतिरुवाच — मघवन्
यत् शान्तहृदयः प्रात्राजी: प्रगतवानसि विरोचनेन साधै
किमिच्छन्पुनरागम इति । विजानन्नपि पुनः पप्रच्छ इन्द्रा-
भिप्रायाभिव्यक्तये— 'यद्वेत्थ तेन मोपसीद्' इति यद्वत् ।
तथा च स्वाभिप्रायं प्रकटमकरोत् - यथैव खल्वयमित्यादि ;
एवमेवेति च अन्वमोदत प्रजापतिः ॥
 
ननु तुल्येऽक्षिपुरुषश्रवणे, देहच्छायाम् इन्द्रोऽग्रहीदा-
त्मेति देहमेव तु विरोचनः तत्किनिमित्तम् ? तत्र मन्यते ।
यथा इन्द्रस्य उदशरावादिप्रजापतिवचनं स्मरतो देवान-
प्राप्तस्यैव आचार्योक्तबुद्धया छायात्मग्रहणं तत्र दोषदर्शनं
च अभूत्, न तथा विरोचनस्य ; किं तर्हि, देहे एव आ-
त्मदर्शनम् ; नापि तत्र दोषदर्शनं बभूव । तद्वदेव विद्याप्र-
हणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षम् इन्द्रविरोचनयो-
श्छायात्मदेहयोर्ग्रहणम् । इन्द्रोऽल्पदोषत्वात् ' दृश्यते ' इति
श्रुत्यर्थमेव श्रद्दधानतया जग्राह ; इतरः छायानिमित्तं देहं हित्वा
श्रुत्यर्थ लक्षणया जग्राह - प्रजापतिनोक्तोऽयमिति, दोषभू-
यस्त्वात् । यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वा -
ससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते
 
8. U. IV. 21