2026-05-06 06:21:43 by ambuda-bot
This page has not been fully proofread.
नवमः खण्डः ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श
यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते
साध्वलंकृतो भवति सुवसने सुवसनः
परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धे-
अन्धो भवति स्रामे स्रामः परिवृक्णे प-
रिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष न-
श्यति नाहमत भोग्यं पश्यामीति ॥ १ ॥
अथ ह् किल इन्द्र: अप्राप्यैव देवान् देव्या अक्रौर्यादि-
संपदा युक्तत्वात् गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन् एत-
द्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् । उदश-
रावान्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो
मघवतः प्रत्यभात् बुद्धौ, येन च्छायत्मग्रहणे दोषं ददर्श ।
कथम् ? यथैव खलु अयमस्मिञ्छरीरे साध्वलंकृते छायात्मापि
साध्वलंकृतो भवति, सुवसने च सुवसनः परिष्कृते परि-
ष्कृतः यथा नखलोमादिदेहावयवापगमे छायात्मापि परि-
ष्कृतो भवति नखलोमादिरहितो भवति, एवमेवायं छाया-