2026-05-06 06:21:43 by ambuda-bot
This page has not been fully proofread.
५१८
छान्दोग्योपनिषद्भाष्ये
मानमाहुरासुरो बतेत्यसुराणा ह्येषोप-
निषत्प्रेतस्य शरीरं भिक्षया वसनेनालं-
कारेणेति सँस्कुर्वन्त्येतेन ह्यमुं लोकं
जेष्यन्तो मन्यन्ते ॥ ५ ॥
इति अष्टमः खण्डः ॥
[ख.
तस्मात् तत्संप्रदायः अद्याप्यनुवर्तत इति इह लोके
अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्का-
र्येषु श्रद्धारहितं यथाशक्त्ययजमानम् अयजनस्वभावम् आहुः
आसुरः खल्वयं यत एवंस्वभावः बत इति खिद्यमाना आहु:
शिष्टाः । असुराणां हि यस्मात् अश्रद्दधानतादिलक्षणैषोप-
निषत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं
मिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्त्रादिनाच्छाद-
'नादिप्रकारेणालंकारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति ।
एतेन कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो
मन्यन्ते ॥
इति अष्टमखण्डभाष्यम् ॥