Proofing

This page has not been fully proofread.

८. ]
 
अष्टमोऽध्यायः ।
 
५१७
 
आत्मापहतपाप्मा इत्यादिवचनवत् एतदप्यनयोः श्रवणगोच-
 
रत्वमेष्यतीति मत्वा उवाच प्रजापति:-
 
--
 
'अनुपलभ्य यथो-
 
क्तलक्षणमात्मानम् अननुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विप-
तनिश्चयौ च भूत्वा इन्द्रविरोचनावेतौ व्रजतः गच्छेया-
ताम् । अतः यतरे देवा वा असुरा वा किं विशेषितेन, एतदु-
पनिषदः आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां
देवानामसुराणां वा त एतदुपनिषदः एवंविज्ञाना: एतन्नि-
श्चयाः भविष्यन्तीत्यर्थः । ते किम् ? पराभविष्यन्ति श्रेयो-
मार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः । स्व-
गृहं गच्छतोः सुरासुरराजयोः योऽसुरराज:, स ह शान्त-
हृदय एव सन् विरोचनः असुराश्ञ्जगाम । गत्वा च तेभ्यो-
ऽसुरेभ्यः शरीरात्मबुद्धिः योपनिषत् तामेतामुपनिषदं प्रोवा-
च उक्तवान् — देहमात्रमेव आत्मा पित्रोक्त इति । तस्मादा-
त्मैव देहः इह लोके महय्यः पूजनीयः, तथा परिचर्य:
परिचरणीयः, तथा आत्मानमेव इह लोके देहं महयन् परि-
चरंश्व उभौ लोकौ अवाप्नोति इमं च अमुं च । इहलो-
कपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्तीति राज्ञो-
ऽभिप्राय: ॥
 
तस्मादप्यद्येहाददानमश्रद्दधानमयज-