Proofing

This page has not been fully proofread.

५१६
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
श्रुत्या च उदशरावाद्युपपत्त्या च संस्कृतौ तावत् । मद्वचनं
सर्व पुनः पुनः स्मरतो: प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये
विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्त-
दुःखोत्पत्ति परिजिहीर्षन् कृतार्थबुद्धितया गच्छन्तावप्युपे-
क्षितवान्प्रजापतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्ट-
हृदयौ कृतार्थबुद्धी इत्यर्थः ; न तु शम एव; शमश्चेत् तयो-
र्जातः विपरीतग्रहो विगतोऽभविष्यत् ; प्रत्रव्रजतुः गतवन्तौ
 
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपल-
भ्यात्मानमननुविद्य व्रजतो यतर एतदुप-
निषदो भविष्यन्ति देवा बासुरा वा ते
पराभविष्यन्तीति स ह शान्तहृद्य एव
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुप-
निषदं प्रोवाचात्मैवेह महय्य आत्मा प-
रिचर्य आत्मानमेवेह महयन्नात्मानं परि-
चरन्नुभौ लोकाववामोतीमं चामुं चेति ॥
 
11
 
एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः
यथोक्तविस्मरणं स्यात् इत्याशङ्कय अप्रत्यक्षं प्रत्यक्षवचनेन
च चित्तदुःखं परिजिहीर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य