2026-05-06 06:21:41 by ambuda-bot
This page has not been fully proofread.
<.]
अष्टमोऽध्यायः ।
५१५
निश्चयों पप्रच्छ-- किं पश्यथः इति ॥
तौ होचतुर्ययैवेदमावां भगवः साध्व-
लंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवे-
मौ भगवः साध्वलंकृतौ सुवसनौ परि-
ष्कृतावित्येष आत्मेति होवाचैतदमृतम-
भयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रव-
व्रजतुः ॥ ३ ॥
तौ तथैव प्रतिपन्नौ यथैवेदमिति पूर्ववत्, यथा साध्वलं -
कारादिविशिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ - इति
सुतरां विपरीतनिश्चयौ बभूवतुः । यस्य आत्मनो लक्षणम्
'य आत्मापहतपाप्मा' इत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोः
' य एषोऽक्षिणि पुरुषो दृश्यते' इति साक्षादात्मनि निर्दिष्टे,
तद्विपरीतग्रहापनयाय उदशराव साध्वलंकारदृष्टान्ते ऽप्यभिहि-
ते, आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः । अतः स्वदोषेण
केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभि-
प्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच
एतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् । न तु तदभिप्रे-
तमात्मानम् । 'य आत्मा' इत्याद्यात्मलक्षणश्रवणेन अक्षिपुरुष-