Proofing

This page has not been fully proofread.

५१४
 
छान्दोग्योपनिषद्भाष्ये
 
[ख
 
साध्वलंकृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परि-
ष्कृतौ च्छिन्नलोमनखौ च भूत्वा उदशरावे पुनरीक्षेथामिति ।
इह च न आदिदेश-यदज्ञातं तन्मे प्रब्रूतम् इति । कथं पुनर-
नेन साध्वलंकारादि कृत्वा उदशरावे अवेक्षणेन तयोश्छा-
यात्मग्रहोऽपनीतः स्यात् ? साध्वलंकारसुवसनादीनामागन्तु-
कानां छायाकरत्वमुदशरावे यथा शरीरसंबद्धानाम्, एवं श-
रौरस्यापि च्छायाकरत्वं पूर्वै बभूवेति गम्यते ; शरीरैकदेशा-
नां च लोमनखादीनां नित्यत्वेन अभिप्रेतानामखण्डितानां
छायाकरत्वं पूर्वमासीत्; छिन्नेषु च नैव लोमनखादिच्छाया
दृश्यते ; अत: लोमनखादिवच्छरीरस्याप्यागमापायित्वं सि-
द्धमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य
अनात्मत्वं सिद्धम् ; उदशरावादौ छायाकरत्वात्, देहसं-
बद्धालंकारादिवत् । न केवलमेतावत्, एतेन यावत्किचि -
दात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचि
स्कत्वात् नखलोमादिवदनात्मेति प्रत्येतव्यम् । एवमशेषमि-
ध्याग्रहापनयनिमित्ते साध्वलंकारादिदृष्टान्ते प्रजापतिनोक्ते,
श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम
यस्मात् तस्मात् स्वदोषेणैव केनचित्प्रतिबद्ध विवेकविज्ञानौ
इन्द्रविरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दृढ-