2026-05-06 06:21:39 by ambuda-bot
This page has not been fully proofread.
८.]
अष्टमोऽध्यायः ।
५१३.
इ प्रजापतिरुवाच --- किं पश्यथ इति, तत्र कोऽभिप्राय
इति उच्यते — नैव तयोः इदमावयोरविदितमित्याशङ्का
अभूत्, छायात्मन्यात्मप्रत्ययो निश्चित एव आसीत् ।
येन वक्ष्यति 'तौह शान्तहृदयौ प्रवत्रजतुः' इति । न हि
अनिश्चिते अभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते । तेन नोचतुः
इदमावाभ्यामविदितमिति । विपरीतग्राहिणौ च शिष्यौ अनु-
पेक्षणीयौ इति स्वयमेव पप्रच्छ- किं पश्यथः इति; विपरी-
तनिश्चयापनयाय च वक्ष्यति ' साध्वलंकृतौ ' इत्येवमादि ।
तौह ऊचतुः सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः
आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैव आवां हे
भगव: लोमनखादिमन्तौ स्वः, एवमेवेदं लोमनखादिसहित-
मावयोः प्रतिरूपमुदशरावे पश्याव इति ॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षे-
थामिति तौ ह साध्वलंकृतौ सुवसनौ
परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते
तौ
ह प्रजापतिरुवाच किं पश्यथ इति ॥
तौह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय -