2026-05-06 06:21:38 by ambuda-bot
This page has not been fully proofread.
अष्टमः खण्डः ॥
तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थे हि आह—
उदशराव आत्मानमवेक्ष्य यदात्मनो
न विजानीथस्तन्मे ब्रूतमिति तौ होद-
शरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच
किं पश्यथ इति तौ होचतुः सर्वमेवेदमा-
वां भगव आत्मानं पश्याव आ लोमभ्य
आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥
उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं
यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्र-
ब्रूतम् आचक्षीयाथाम् - इत्युक्तौ तौ ह तथैव उदशरावे अवे-
क्षांचक्राते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापति-
रुवाच — किं पश्यथः इति । ननु तन्मे प्रब्रूतम् इत्युक्ता -
भ्याम् उदशरावे अवेक्षणं कृत्वा प्रजापतये न निवेदितम् -
इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ