Proofing

This page has not been fully proofread.

७.]
 
अष्टमोऽध्यायः ।
 
५११
 
समन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः
परिख्यायते खड्गादौ च, कतम एष एषां भगवद्भिरुक्तः, किं
वा एक एव सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच — एष
उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वा एषु
सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥
 
ननु कथं युक्तं शिष्ययोर्विपरीतग्रहणमनुज्ञातुं प्रजापतेः
विगतदोषस्य आचार्यस्य सतः ! सत्यमेवम्, नानुज्ञातम् ।
कथम्? आत्मन्यध्यारोपितपाण्डित्य महत्त्वबोद्धृत्वौ हि इन्द्र-
विरोचनौ, तथैव च प्रथितौ लोके; तौ यदि प्रजापतिना
'मूढौ युवां विपरीतग्राहिणौ' इत्युक्तौ स्याताम् ; ततः तयोश्च-
त्ते दुःखं स्यात् ; तज्जनिताञ्च चित्तावसादात् पुनःप्रश्नश्रवण-
ग्रहणावधारणं प्रति उत्साहविघातः स्यात्; अतो रक्षणीयौ
शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत्, तदुदशराव-
दृष्टान्तेन अपनेष्यामीति च । ननु न युक्तम् एष उ एव इत्यनृतं
वक्तुम् । न च अनृतमुक्तम् । कथम् ? आत्मनोक्तः अक्षि-
पुरुष : मनसि संनिहिततरः शिष्यगृहीताच्छायात्मन: ;
सर्वेषां चाभ्यन्तर: ' सर्वान्तर:' इति श्रुतेः; तमेवावोचत्
एष उ एव इति ; अतो नानृतमुक्तं प्रजापतिना ॥
 
इति सप्तमखण्डभाष्यम् ॥