2026-05-06 06:21:38 by ambuda-bot
This page has not been fully proofread.
५१०
छान्दोग्योपनिषद्भाष्ये
[ख.
नात् अन्योन्यमीर्ष्यायुक्तावभूताम्, तथापि विद्याप्राप्तिप्रयोज-
नगौरवात् त्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भूत्वा ऊषतुः ब्रह्म-
चर्य प्रजापतौ । तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि
पुरुषो दृश्यत एष आत्मेति होवाचैतद-
मृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु
परिख्यायते यश्चायमादर्शे कतम एष
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत
इति होवाच ॥ ४ ॥
इति सप्तमः खण्डः ।
तौ एवं तपस्विनौ शुद्धकल्मषौ योग्यौ उपलक्ष्य प्रजा-
पतिरुवाच इ --- य एषोऽक्षिणि पुरुषः निवृत्तचक्षुर्भिर्मृदि-
तकषायैः दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणः,
यमवोचं पुरा अहं यद्विज्ञानात्सर्वलोककामावाप्तिः एतदमृतं
भूमाख्यम् अत एवाभयम्, अत एव ब्रह्म वृद्धतममिति । अथै-
तत्प्रजापतिनोक्तम् अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा
छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापति
पृष्टवन्तौ — अथ योऽयं हे भगवः अप्सु परिख्यायते परि