Proofing

This page has not been fully proofread.

७.]
 
अष्टमोऽध्यायः ।
 
५०९
 
फलं प्रति अन्योन्यमर्ष्या दर्शयन्तौ समित्पाणी समिद्भार-
हस्तौ प्रजापतिसकाशमाजग्मतुः आगतवन्तौ ॥
 
तौह द्वात्रिशतं वर्षाणि ब्रह्मचर्य -
मूषतुस्तौ ह प्रजापतिरुवाच किमिच्छ-
न्ताववास्तमिति तौ होचतुर्य आत्माप-
हतपारमा विजरो विमृत्युर्विशोको वि-
जिघत्सोऽपिपासः सत्यकामः सत्यसंक-
ल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः
स सर्वाश्च लोकानाप्नोति सर्वाश्च का-
मान्यस्तमात्मानमनुविद्य विजानातीति
भगवतो वचो वेदयन्ते तमिच्छन्ताव-
वास्तमिति ॥
 
तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्म-
चर्यम ऊषतुः उषितवन्तौ । अभिप्रायशः प्रजापति: तावु-
वाच— किमिच्छन्तौ किं प्रयोजनमभिप्रेत्य इच्छन्तौ अवास्तम्
उषितवन्तौ युवामिति । इत्युक्तौ तौ ह ऊचतुः —य आत्म-
त्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातु-
मिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागम-