2026-05-06 06:21:36 by ambuda-bot
This page has not been fully proofread.
५०८
छान्दोग्योपनिषद्भाष्ये
[ख.
त्मानमन्विष्य सर्वाश्च लोकानाप्नोति
सर्वाश्च कामानितीन्द्रो हैव देवानाम-
भिप्रवव्राज विरोचनोऽसुराणां तौ हासं-
विदानावेव समित्पाणी प्रजापतिसका-
शमाजग्मतुः ॥ २॥
।
तद्धोभग्रे इत्याद्याख्यायिकाप्रयोजनमुक्तम । तद्ध किल
प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः
अनु परम्परागतं स्वकर्णगोचरापन्नम् अनुबुबुधिरे अनुबुद्धव-
न्तः । ते च एतत्प्रजापतिवचो बुद्धा किमकुर्वन्निति, उच्यते-
ते ह ऊचुः उक्तवन्त: अन्योन्यं देवा: स्वपरिषदि असुरा-
च - हन्त यदि अनुमतिर्भवताम्, प्रजापतिनोक्तं तमात्मा-
नमन्विच्छिामः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सर्वोश्च
लोकानाप्नोति सर्वोश्च कामान् - इत्युक्त्वा इन्द्र: हैव राजैव
स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्व स्थापयित्वा
शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रववाज प्रगतवान्, तथा
विरोचनः असुराणाम् । विनयेन गुरवः अभिगन्तव्या
इत्येतद्दर्शयति, त्रैलोक्यराज्याच्च गुरुतरा विद्येति, यतः देवा-
सुरराजौ महाईभोगार्थौ सन्तौ तथा गुरुमभ्युपगतवन्तौ ।
तौ ह किल असंविदानावेव अन्योन्यं संविदमकुर्वाणो विद्या-