Proofing

This page has not been fully proofread.

७. ]
 
-
 
अष्टमोऽध्यायः ।
 
५०७
 
उपलब्ध्यर्थे हृदयपुण्डरीकमभिहितम्, यस्मिन्कामा: समा-
हिताः सत्याः अनृतापिधानाः, यदुपासनसहभावि ब्रह्मचर्य
साधनमुक्तम्, उपासनफलभूत कामप्रतिपत्तये च मूर्धन्यया
नाड्या गतिरभिहिता, सोऽन्वेष्टव्यः शास्त्राचार्योपदेशैर्ज्ञा-
तव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वसंवेद्यता-
मापादयितव्यः । किं तस्यान्वेषणाद्विजिज्ञासनाच्च स्यादिति,
उच्यते स सर्वांश्च लोकानाप्नोति सर्वोश्च कामान्; यः
तमात्मानं यथोक्तेन प्रकारेण शास्त्राचार्योपदेशेन अन्विष्य
विजानाति स्वसंवेद्यतामापादयति, तस्य एतत्सर्वलोककामा-
वाप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरुवाच ।
अन्वेष्टव्यः विजिज्ञासितव्य इति च एष नियमविधिरेव, न
अपूर्वविधिः । एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः, दृष्टा-
र्थत्वादन्वेषणविजिज्ञासनयोः । दृष्टार्थत्वं च दर्शयिष्यति
'नाहमत्र भोग्यं पश्यामि' इत्यनेन असकृत् । पररूपेण च
देहादिधर्मैरवगम्यमानस्य आत्मन: स्वरूपाधिगमे विपरी-
ताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैव अस्य विधेर्युक्ता,
न त्वग्निहोत्रादीनामिव अपूर्वविधित्वमिह संभवति ॥
 
.
 
तोभये देवासुरा अनुवुबुधिरे ते
होचुर्द्दन्त तमात्मानमन्विच्छामो यमा-