Proofing

This page has not been fully proofread.

६.]
 
अष्टमोऽध्यायः ।
 
५०५
 
गच्छतीत्यर्थः, न तु तावतैव कालेनेति विवक्षितम् । किमर्थमा-
दित्यं गच्छतीति, उच्यते - एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं
य आदित्यः ; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान् । अत:
विदुषां प्रपदनम्, प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् ।
निरोधनं निरोधः अस्मादादित्यादविदुषां भवतीति निरोधः,
सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्यया नाड्या
नोत्क्रमन्त एवेत्यर्थः, ' विष्वङ्ङन्या ' इति श्लोकात् ॥
 
तदेष श्लोकः । शतं चैका च हृदयस्य
नाज्यस्तासां मूर्धानमभिनिःसृतैका । त-
योर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उ-
त्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥
 
तत् तस्मिन् यथोक्तेऽर्थे एष श्लोको मन्त्रो भवति — शतं
च एका एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य
संबन्धिन्यः प्रधानतो भवन्ति, आनन्त्याद्देहनाडीनाम । ता-
सामेका मूर्धानमभिनिःसृता विनिर्गता । तयोर्ध्वमायन गच्छ
न् अमृतत्वम् अमृतभावमेति । विष्वक् नानागतयः निर्यग्वि-
सर्पिण्य ऊर्ध्वगाश्च अन्या नाड्यः भवन्ति संसारगमनद्वार-
भूता: ; न त्वमृतत्वाय; किं तर्हि, उत्क्रमणे एव उत्क्रान्त्य-
र्थमेव भवन्तीत्यर्थः । द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥
 
इति षष्ठखण्डभाष्यम् ॥
 
S. U. IV. 20