2026-05-06 06:21:33 by ambuda-bot
This page has not been fully proofread.
५०४
छान्दोग्योपनिषद्भाष्ये
[ख.
अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशी-
भावम् एतत् नयनं नीतः प्रापित: देवदत्तो भवति मुमूर्षुर्यदा
भवतीत्यर्थः । तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः
आहु:- जानासि मां तव पुत्रं जानासि मां पितरं च
इत्यादि । स मुमूर्षुः यावदस्माच्छरीरादनुत्क्रान्तः अनिर्गतः
भवति तावत्पुत्रादीञ्जानाति ॥
·
अथ यत्तैतदस्माच्छरीरादुत्क्रामत्यथै-
तैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति
वा होद्वा मीयते स यावत्क्षिप्येन्मनस्ता-
वदादित्यं गच्छत्येतद्वै खलु लोकद्वारं
विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
अथ यत्र यदा, एतत्क्रियाविशेषणमिति, अस्माच्छरीरादु-
क्रामति, अथ तदा एतैरेव यथोक्ताभिः : रश्मिभिः ऊर्ध्व-
माक्रमते यथाकर्मजितं लोकं प्रैति अविद्वान् । इतरस्तु
विद्वान् यथोक्तसाधनसंपन्नः स ओमिति ओंकारेण आत्मानं
ध्यायन् यथापूर्वं वा ह एव, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इतर-
स्तिर्यङ्गेत्यभिप्रायः । मीयते प्रमीयते गच्छतीत्यर्थः । स वि-
द्वान् उत्क्रमिष्यन्यावत्क्षिप्येन्मनः यावता कालेन मनसः
क्षेपः स्यात्, तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं