Proofing

This page has not been fully proofread.

६.]
 
अष्टमोऽध्यायः ।
 
५०३
 
'
 
स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया
परिणम्यते । तं सत्ता संपन्नं न कश्चन न कश्चिदपि धर्माध-
रूपः पाप्मा स्पृशतीति स्वरूपावस्थितत्वात् तदा आत्मन: ।
देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति,
न तु सत्संपन्नं स्वरूपात्रस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते,
अविषयत्वात् । अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं
केनचित्कुतश्चिदपि सत्संपन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो
जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोध: अविद्याका-
मकर्मबीजस्य ब्रह्मविद्या हुताशादाहनिमित्तमित्यवोचाम षष्ठे
एव; तदिहापि प्रत्येतव्यम् । यदैवं सुप्तः, सौरेण तेजसा
हि नाड्यन्तर्गतेन सर्वतः संपन्न: व्याप्तः भवति । अतः
विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि क-
रणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात्
स्वात्मन्येवावस्थित: स्वप्नं न विजानातीति युक्तम् ॥
 
अथ यत्रैतदबलिमानं नीतो भवति
तमभित आसीना आहुर्जानासि मां
जानासि मामिति स यावदस्माच्छरीरा-
दनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
तत्र एवं सति, अथ यत्र यस्मिन्काले अबलिमानम्