Proofing

This page has not been fully proofread.

५०२
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छ-
न्ति उभयत्र प्रविष्टाः । यथा महापथः । कथम् ? अमुष्मा-
-दादित्यमण्डलात् प्रतायन्ते संतता भवन्ति । ता अध्यात्म-
मासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ताः गता:
प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः संता-
-नभूताः सत्यः ते अमुष्मिन् । रश्मीनामुभयलिङ्गत्वात् ते
इत्युच्यन्ते ॥
 
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वनं
न विजानात्यासु तदा नाडीषु सृप्तो भ
वति तं न कश्चन पाप्मा स्पृशति तेजसा
हि तदा संपन्नो भवति ॥ ३ ॥
 
तत् तत्र एवं सति यत्र यस्मिन्काले एतत् स्वपनम् अयं
जीवः सुप्तो भवति । स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त
इति । उपसंहृतसर्वकरणवृत्तिरित्येतत् । अतः बाह्यविषयसंपर्क-
जनितकालुष्याभावात् सम्यक् प्रसन्नः संप्रसन्नो भवति । अत
एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति
- नानुभवतीत्यर्थः । यदैवं सुनो भवति, आसु सौरतेज:पूर्णासु
यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडीभिर्द्वारभूताभिः
हृदयाकाशं गतो भवतीत्यर्थः । न हि अन्यत्र सत्संपत्तेः