2026-05-06 06:21:30 by ambuda-bot
This page has not been fully proofread.
६.]
अष्टमोऽध्यायः ।
५०१
म् । तदेव च वातभूयस्त्वात् नीलं भवति । तदेव चः कफ-
भूयस्त्वात् 'शुक्लम् । कफ़ेन: समतायां पीतम् । शोणितबाहु-
ल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं
भवन्तीति । श्रुतिस्त्वाह - आदित्यसंबन्धादेव तत्तेजसो ना-
डीष्वनुगतस्यैते वर्णविशेषा इति । कथम् ? असौ वा आ-
दित्यः पिङ्गलो बर्णतः, एष आदित्य शुक्लोऽप्येष नील एष
पीत एष लोहित आदित्य एव ॥
- तद्यथा महापंथ आतंत उभौ ग्रामौ
गच्छतीमं चामुं चैवमेवैता आदित्यस्य
रश्मय उभौ लोकौ गच्छन्तीमं चामुं
चामुष्मादादित्यात्प्रतायन्ते ता आसु ना-
डीषु सृता आभ्यो नाडीभ्यः प्रतायन्ते
तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
- तस्याध्यात्मं नाडीभिः कथं संबन्ध इति, अन्न दृष्टा-
न्तमाह--- तत् तत्र यथा लोके महान् विस्तीर्णः पन्था
महापथुः आंततः व्याप्तः उभौ प्रामौ गच्छति इमं च संनि-
हितम् अमुं च विप्रकृष्टं दूरस्थम्, एवं यथा दृष्टान्तः महा-
पथः उभौ प्रामौ प्रविष्टः, एवमेवैताः आदित्यस्य रश्मयः