2026-05-06 06:21:32 by ambuda-bot
This page has not been fully proofread.
षष्ठः खण्डः ॥
यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्या -
दिसाधनंसंपन्नः त्यक्तवाह्यविषयानृततृष्णः सन् उपास्ते, तस्येयं
मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते—
2:
अथ या एता हृदयस्य नाड्यस्ताः पि-
ङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य
पीतस्य लोहितस्येत्यसौ वा आदित्यः पि-
ङ्गल एष शुक्ल एष नील एष पीत एष
लोहितः ॥ १ ॥
अथ या एता: वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य
ब्रह्मोपासनस्थानस्य संबन्धिन्यः नाड्यः हृदयमांसपिण्डात्स-
र्वतो विनिःसृता: आदित्यमण्डलादिव रश्मयः, ताचैताः
पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्न: सूक्ष्मरसस्य रसेन
पूर्णाः तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य
नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र
अध्याहार्यम् । सौरेण तेजसा पिंत्ताख्येन पाकाभिनिर्वृत्तेन
कफेन अल्पेन संपर्कात् पिङ्गलं भवति सौरं तेज: पित्ताख्य-