Proofing

This page has not been fully proofread.

५.
]
 
अष्टमोऽध्यायः ।
 
४९९
 
नृता भवन्ति विषया: । सत्यमेव । जाग्रद्बोधापेक्षं तु तदनु-
तत्वं न स्वतं: । तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं
न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिध्याप्रत्ययनि-
मित्तमिति वाचारम्भणं विकारो नामधेयमनृतम्, त्रीणि
रूपाणीत्येव सत्यम् । तान्यप्याकारविशेषतोऽनृतं स्वतः
सन्मात्ररूपतया सत्यम् । प्राक्सदात्मप्रतिबोधात्स्व विषयेऽपि
सर्वे सत्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः । तस्मा-
न्मानसा एव ब्राह्मलौकिका अरण्यादयः संकल्पजाश्च पित्रा -
दय: कामा: । बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्व-
संकल्पजन्या इति निरतिशयसुखाः सत्याश्च ईश्वराणां भव-
न्तीत्यर्थः । सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिता:
सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना
सत्या एव भवन्ति ॥
 
इति पञ्चमखण्डभाष्यम् ॥