Proofing

This page has not been fully proofread.

४९८
 
छान्दोग्योपनिषद्भाष्ये
 
द्धरूपाणामेव तत्र गमनानुपपत्तेः । तस्मात्प्रसिद्धमूर्तिव्यति-
रेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोक-
गन्तृ कल्पनीयम् । तुल्यायां च कल्पनायां यथाप्रसिद्धा एव
मानस्यः आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुम्,
मानसदेहानुरूप्यंसंबन्धोपपत्तेः । दृष्टा हि मानस्य एव
आकारवत्य: पुंस्त्र्याद्या मूर्तयः स्वप्ने । ननु ता अनृता
एव; ' त इमे सत्या: कामा:' इति श्रुतिः तथा सति
विरुध्येत । न, मानसप्रत्ययस्य सत्त्वोपपत्तेः । मानसा
हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते । ननु जाग्र-
द्वासनारूपाः स्वप्नदृश्याः, न तु तत्र स्त्र्यादय: स्वप्ने वि-
द्यन्ते । अत्यल्पमिदमुच्यते । जाप्रद्विषया अपि मानसप्र-
त्ययाभिनिर्वृत्ता एव, सदीक्षाभिनिर्वृत्ततेजोबन्नमयत्वाज्जाग्र-
द्विषयाणाम् । संकल्पमूला हि लोका इति च उक्तम् ' सम-
. क्लृपतां द्यावापृथिवी' इत्यत । सर्वश्रुतिषु च प्रत्यगात्मन
उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च 'यथा वा अरा नाभौ '
इत्यादिना उच्यते । तस्मान्मानसानां बाह्यानां च विषया-
णाम् इतरेतरकार्यकारणत्वमिष्यत एव बीजाङ्कुरवत् । यद्यपि
बाह्या एव मानसाः मानसा एव च बाह्याः, नानृतत्वं तेषां
कदाचिदपि स्वात्मनि भवति । ननु स्वप्ने दृष्टाः प्रतिबुद्धस्या-
 
.