Proofing

This page has not been fully proofread.

५. ]
 
अष्टमोऽध्यायः ।
 
४,९७
 
स्त्र्यादिबाह्यविषयतृष्णापहृत चिंत्तानां प्रत्यगात्मविवेकविज्ञा
नानुपपत्ते:, 'पराचि खानि व्यतृणत्स्वयंभू स्तस्मात्पराङ्प-
श्यति नान्तरात्मन्' इत्यादिश्रुतिस्मृतिशतेभ्यः । ज्ञानसह-
कारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमे-
वेति युक्तैव तत्स्तुतिः । ननु च यज्ञादिभिः स्तुतं ब्रह्मच-
र्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते । सत्यं गम्यते,
न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य
यज्ञादिभिर्ब्रह्मचर्य स्तूयते ; किं तर्हि तेषां प्रसिद्धं पुरुषार्थ-
साधनत्वमपेक्ष्य । यथेन्द्रादिभिः राजा, न तु यत्रेन्द्रादीनां
व्यापारः तत्रैव राज्ञ इति तद्वत् ।
 
"
 
.
 

 
य इमेऽर्णवादयो ब्राह्मलौकिकाः संकल्पजाश्च पित्रादयो
भोगाः, ते किं पार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्व-
दर्णववृश्नपूःस्वर्णमण्डपानि, आहोस्वित्: मानसप्रत्ययमात्राणी-
ति । किंचात: ? यदि पार्थिवा आप्याश्च स्थूला: स्यु:,
हृद्याकाशे समाधानानुपपत्तिः । पुराणे च मनोमयानि ब्रह्म-
लोके शरीरादीनीति वाक्यं विरुध्येत ; ' अशोकमहिमम्
इत्याद्याश्च श्रुतय: । ननु समुद्राः सरितः सरांसि वाप्यः
कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तः ब्रह्माणमुपतिष्ठन्ते
इति मानसत्वे विरुध्येत पुराणस्मृति: । न, मूर्तिमत्त्वे प्रसि-
 
"