Proofing

This page has not been fully proofread.

४९६
 
छान्दोग्योपनिषद्भाष्ये
 
[खः
 
ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भयः अन्यैः न जीयत
इति अपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य ।
ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच हिरण्मयं
सौवर्ण प्रभुविमितं मण्डपमिति वाक्यशेषः ॥
 
तय एवैतावरं च ण्यं चार्णव ब्रह्म-
लोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष
ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु काम-
चारो भवति ॥ ४ ॥
 
इति पञ्चमः खण्डः ॥
 
'
 
.
 
तत् तत्र ब्रह्मलोके एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्म-
चर्येण साधनेन अनुविन्दन्ति ये तेषामेव एषः यो व्या-
ख्यातः ब्रह्मलोकः । तेषां च ब्रह्मचर्यसाधनवतां ब्रह्मविदां
सर्वेषु लोकेषु कामचारो भवति नान्येषामब्रह्मचर्यपराणां
बाह्यविषयासक्तबुद्धीनां कदाचिदपीत्यर्थः ॥
 
9
 
" नन्वत्र 'त्वमिन्द्रस्त्वं यमस्त्वं वरुणः' इत्यादिभिर्यथा
कश्चित्स्तूयते महाई: एवमिष्टादिभिः शब्दैः न स्त्र्यादिवि-
षयतृष्णानिवृत्तिमात्रं स्तुत्यर्हम् ; किं तर्हि, ज्ञानस्य मोक्ष-
साधनत्वात् तदेवेष्टादिभि: स्तूयत इति केचित् । न,
 
"