Proofing

This page has not been fully proofread.

५.]
 
अष्टमोऽध्यायः ।
 
४९५
 
स्तदपराजिता पूर्ब्रह्मणः प्रभुविमित‍
 
हिरण्मयम् ॥ ३ ॥
 
अथ यदनाशकायनमित्याचक्षते, ब्रह्मचर्यमेव तत् ।
यमात्मानं ब्रह्मचर्येण अनुविन्दते, स एष हि आत्मा
ब्रह्मचर्यसाधनवतो न नश्यति ; तस्मादनाशकायनमपि ब्र-
ह्मचर्यमेव । अथ यदरण्यायनमित्याचक्षते, ब्रह्मचर्यमेव
तत् । अरण्यशब्द्ययोरर्णवयोर्ब्रह्मचर्यवतोऽयनादरण्यायनं त्र-
ह्मचर्यम् । यो ज्ञानाद्यज्ञः एषणादिष्टं सतखाणात्सत्रायणं
मननान्मौनम् अनशनादनाशकायनम् अरण्ययोर्गमनादर-
ण्यायनम् इत्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वात् ब्रह्म-
चर्य परमं ज्ञानस्य सहकारिकारणं साधनम् - इत्यतो ब्रह्म-
विदा यनतो रक्षणीयमित्यर्थः । तत् तत्र हि ब्रह्मलोके
अरश्च ह वै प्रसिद्धो ण्यश्च अर्णवौ समुद्रौ समुद्रोपमे वा
सरसी, तृतीयस्यां भुवमन्तरिक्षं च अपेक्ष्य तृतीया द्यौः
तस्यां तृतीयस्याम् इतः अस्माल्लोकादारभ्य गण्यमानायां
दिवि । तत् तत्रैव च ऐरम् इरा अन्नं तन्मयः ऐर: मण्डः
तेन पूर्णम् ऐरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं
सरः । तत्रैव च अश्वत्थो वृक्षः सोमसवनो नामतः सोमो-
-ऽमृतं तन्निस्रवः अमृतस्रव इति वा । तत्रैव च ब्रह्मलोके