Proofing

This page has not been fully proofread.

४९४
 
छान्दोग्योपनिषद्भाष्ये
 
तमात्मानमनुविन्दते । एषणादिष्टमपि ब्रह्मचर्यमेव ॥
 
अथ यत्सत्रायणमित्याचक्षते ब्रह्मचर्य-
मेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं
विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्य-
मेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य
मनुते ॥ २ ॥
 
[ख.
 
अथ यत्सत्रायणमित्याचश्नते, ब्रह्मचर्यमेव तत् । तथा
सतः परस्मादात्मनः आत्मनस्त्राणं रक्षणं ब्रह्मचर्यसाधनेन
विन्दते । अतः सन्नायणशब्दमपि ब्रह्मचर्यमेव तत् । अथ
यन्मौनमित्याचक्षते, ब्रह्मचर्यमेव तत्; ब्रह्मचर्येणैव साधनेन
युक्तः सन् आत्मानं शास्त्राचार्याभ्यामनुविद्य पश्चात् मनुते
ध्यायति । अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥
 
अथ यदनाशकायनमित्याचक्षते ब्रह्म-
चर्यमेव तदेष ह्यात्मा न नश्यति यं ब्र-
ह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्या-
चक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्य-
वार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि
तदैरं मदीयँ सरस्तदश्वत्थः सोमसवन-