2026-05-06 06:21:28 by ambuda-bot
This page has not been fully proofread.
पञ्चमः खण्डः
य आत्मा सेतुत्वादिगुणैः स्तुत:, तत्प्राप्तये ज्ञानसहका-
रिसाधनान्तरं ब्रह्मचर्याख्यं विधातव्यमित्याह । यज्ञादिभिश्व
तत्स्तौति कर्तव्यार्थम् -
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव
तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते-
ऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्र-
· ह्मचर्येण ह्येवेष्ट्रात्मानमनुविन्दते ॥ १ ॥
i
" अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथ-
यन्ति शिष्टा:, तद्ब्रह्मचर्यमेव । यज्ञस्यापि यत्फलं तत् ब्रह्म-
चर्यवाल्लभते ; अतः यज्ञोऽपि ब्रह्मचर्यमेवेति प्रतिपत्तव्यम् ।
कथं ब्रह्मचर्यं यज्ञ इति, आह- ब्रह्मचर्येणैव हि यस्मात्
यो ज्ञाता स तं ब्रह्मलोकं यज्ञखापि पारम्पर्येण फलभूतं
विन्दते लभते, ततो यज्ञोऽपि ब्रह्मचर्यमेवेति । यो ज्ञाता-
इत्यक्षरानुवृत्तेः यज्ञो ब्रह्मचर्यमेव । अथ यदिष्टमित्याचक्षते,
ब्रह्मचर्यमेव तत् । कथम् ? ब्रह्मचर्येणैव साधनेन तम्
ईश्वरम् इष्ट्वा पूजयित्वा अथवा एषणाम् आत्मविषयां कृत्वा