2026-05-06 06:21:28 by ambuda-bot
This page has not been fully proofread.
४९२
छान्दोग्योपनिषद्भाष्ये
"
[खं.
भवति देहवत्त्वं पूर्वमन्धोऽपि सन् । तथा विद्धः सन् देह-
वत्त्वे स देहवियोगे सेतुं प्राप्य अविद्धो भवति । तथोपता-
पी रोगाद्युपतापवान्सन अनुपतापी भवति । किंच यस्माद-
होरात्रे न स्तः सेतौ तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तः
मपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ; विज्ञया-
त्मज्योतिःस्वरूपमहरिवाह: सदैकरूपं विदुषः संपद्यत इत्य-
र्थः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेण
एष ब्रह्मलोकः ॥
E
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुवि-
: न्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु
· लोकेषु कामचारो भवति ॥ ३ ॥
इति चतुर्थः खण्डः ॥ :
.
तत् - तत्रैवं सति एतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्री-
विषयतृष्णात्यागेन शास्त्राचार्योपदेशमनुविन्दन्ति स्वात्मसं-
वेद्यतामापादयन्ति ये, तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मवि-
दाम् एष ब्रह्मलोकः, नान्येषां स्त्रीविषयसंपर्कजात तृष्णानां
ब्रह्मविदामपीत्यर्थः । तेषां सर्वेषु लोकेषु कामचारों भवती-.
त्युक्तार्थम् । तस्मात्परमम् एतत्साधनं ब्रह्मचर्यं ब्रह्मविदामि -
त्यभिप्रायः ।
- इति चतुर्थखण्डभाष्यम् ॥
3