Proofing

This page has not been fully proofread.

४.]
 
अष्टमोऽध्यायः ।
 
४९१
 
तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम्, सुकृतदुष्कृते
धर्माधर्मौ । प्रातिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम् ।
कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं का-
र्येण । अहोरात्रादि च सर्वे सतः कार्यम् । अन्येन हि अन्य-
स्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य । न हि
घटेन मृत्प्राप्यते अतिक्रम्यते वा । यद्यपि पूर्वम् 'य आत्मा-
पहतपाप्मा' इत्यादिना पाप्मादिप्रतिषेध उक्त एव, तथापीहायं
विशेष:-न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते । तत्र अवि-
शेषेण जराद्यभावमात्रमुक्तम् । अहोरात्राद्या उक्ता अनुक्ताश्च
अन्ये सर्वे पाप्मानः उच्यन्ते ; अतः अस्मादात्मनः सेतो:
निवर्तन्ते अप्राप्यैवेत्यर्थः । अपहतपाप्मा हि एष ब्रह्मैव
लोक: ब्रह्मलोकः उक्तः ॥
 
तस्माद्वा एत५ सेतुं तीर्त्वान्धः सन्न-
नन्धो भवति विद्धः सन्नविद्धो भवत्युप-
तापी सन्ननुपतापी भवति तस्माद्वा एतँ
सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥
 
यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्यात् न त्व-
शरीरस्य तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो
 
و