2026-05-06 06:21:28 by ambuda-bot
This page has not been fully proofread.
चतुर्थः खण्डः ॥
अथ य आत्मा स सेतुर्विधृतिरेषां
लोकानामसंभेदाय नैत सेतुमहोरात्रे
तरतो न जरा न मृत्युर्न शोको न सुकृतं
न दुष्कृतः सर्वे पाप्मानोऽतो निवर्तन्ते
ऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
अथ य आत्मेति । उक्तलक्षणो यः संप्रसादः, तस्य
स्वरूपं वक्ष्यमाणैरुक्तैरनुक्तैश्च गुणैः पुनः स्तूयते, ब्रह्मचर्य -
साधनसंबन्धार्थम् । य एषः यथोक्तलक्षणः आत्मा, स से-
तुरिव सेतुः । विधृतिः विधरणः । अनेन हि सर्व जगद्वर्णा-
श्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता
विधृतम् । अध्रियमाणं हि ईश्वरेणेदं विश्वं विनश्येद्यत:,
तस्मात्स सेतुः विधृतिः । किमर्थं स सेतुरिति, आह— एषां
भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असंभेदाय अवि-
दारणाय अविनाशायेत्येतत् । किंविशिष्टश्वासौ सेतुरिति,
आह— नैतम्, सेतुमात्मानमहोरात्रे सर्वस्य जनिमत: प-
रिच्छेदके सती नैतं तरतः । यथा अन्ये संसारिणः कालेन
अहोरात्रादिलक्षणेन परिच्छेद्या, न तथा अयं कालपरिच्छेद्य
इत्यभिप्रायः, 'यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ' इति
श्रुत्यन्तरात् । अत एव एनं न जरा तरति न प्राप्नोति ।