Proofing

This page has not been fully proofread.

३.]
 
:: अष्टमोऽध्यायः
 
.I
 
४८९
 
तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि
सतीयमिति, सकारस्तकारो यमिति च । ईकारस्तकारे उ-
च्चारणार्थोऽनुबन्धः, ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात् । तेषां
तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म – अमृतवाचकत्वा-
दमृत एव सकारस्तकारान्तो निर्दिष्टः । अथ यत्ति तकारः
तन्मर्त्यम् । अथ यत् यम् अक्षरम्., तेनाक्षरेणामृतमर्त्याख्ये
पूर्वे उभे अक्षरें यच्छति नियमयति वशीकरोत्यात्मनेत्यर्थः ।
यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम् ।
संयते इव हि एतेन यमा लक्ष्येते । ब्रह्मनामाक्षरस्यापि
इदममृतत्वादिधर्मवत्त्वं महाभाग्यम्, किमुत नामवतः -
इत्युपास्यत्वाय स्तूयते ब्रह्म नामनिर्वचनेन । एवं नामवतो
वेत्ता एवंवित् । अहरहर्वा एवंवित्स्वर्ग लोकमेतीत्युक्तार्थम् ॥
 
इति तृतीयखण्डभाष्यम् ॥
 
S. U. IV. 19