2026-05-06 06:21:27 by ambuda-bot
This page has not been fully proofread.
४८८
वै
छान्दोग्योपनिषद्भाष्ये
-
[ख.
षणात् — न हि अन्यत उत्थाय स्वरूपं संपत्तव्यम् । स्वरू-
पमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् । परं परमात्म-
लक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्ये-
तत् । स्वेन आत्मीयेन रूपेण अभिनिष्पद्यते, प्रागेतस्याः
स्वरूपसंपत्तेरविद्यया देहमेव अपरं रूपम् आत्मत्वेनोपगत
इति तदपेक्षया इदमुच्यते - स्वेन रूपेणेति । अशरीरता हि
आत्मनः स्वरूपम्। यत्स्वं परं ज्योतिः स्वरूपमापद्यते संप्रसा-
दः, एष आत्मेति ह उवाच – स ब्रूयादिति यः श्रुत्या नियुक्त:
अन्तेवासिभ्यः । किं च एतदमृतम् अविनाशि भूमा 'यो
भूमा तदमृतम्' इत्युक्तम् । अत एवाभयम्, भूम्नो
द्वितीयाभावात् । अत एतद्ब्रह्मेति । तस्य ह वा एतस्य
ब्रह्मणो नाम अभिधानम् । किं तत् ? सत्यमिति । सत्यं
हि अवितथं ब्रह्म । ' तत्सत्यं स आत्मा' इति हि उक्तम् ।
अथ किमर्थमिदं नाम पुनरुच्यते ? तदुपासनविधिस्तुत्यर्थम् ॥
तानि ह वा एतानि त्रीण्यक्षराणि
सतीयमिति तद्यत्सत्तदमृतमथ यत्ति
तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदने-
नोभे यच्छति तस्माद्यमहरहर्वा एवं-
वित्स्वर्ग लोकमेति ॥ ५ ॥
इति तृतीयः खण्डः ॥