Proofing

This page has not been fully proofread.

३.]
 
अष्टमोऽध्यायः ।
 
"
 
सता सोम्य
 
तदा संपन्न: '
 
४८७
 
इत्युक्तत्वात् । बाढमेवम्,
तथाप्यस्ति विशेषः -- यथा जानन्नजानंश्च सर्वो जन्तुः
सङ्ग्रह्मैव तथापि तत्त्वमसीति प्रतिबोधितः विद्वान् -सदेव
नान्योऽस्मि - इति जानन् सदेव भवति ; एवमेव विद्वा-
नविद्वांश्च सुपुप्ते यद्यपि सत्संपद्यते, तथाप्येवंविदेव स्वर्ग
लोकमेतीत्युच्यते । देहपातेऽपि विद्याफलस्यावश्यंभावित्वा-
दित्येष विशेषः ॥
 
अथ य एष संप्रसादोऽस्माच्छरीरा-
त्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रू-
पेणाभिनिष्पद्यत एष आत्मेति होवाचै-
तदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एत-
स्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥
 
सुषुप्तकाले स्वेन आत्मना सत्ता संपन्नः सन् सम्यक्प्र-
सीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रिय संयोगजातं कालुष्यं जहा-
तीति संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः, तथापि
एवंवित् स्वर्ग लोकमेतीति प्रकृतत्वात् एष संप्रसाद इति
संनिहितवद्यनविशेषात् सः अथेदं शरीरं हित्वा अस्माच्छ-.
रीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः ।
आसनादिव समुत्थायेति इह युक्तम्, स्वेन रूपेणेति विशे-