2026-05-06 06:21:27 by ambuda-bot
This page has not been fully proofread.
४८६
छान्दोग्योपनिषद्भाष्ये
[ख.
उपर्युपरि संचरन्तोऽपि निधिं न विन्दंयुः शक्यवेदन-
मपि, एवमेव इमा: अविद्यावत्यः सर्वा इमाः प्रजाः
यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोक:
तम् अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति
न लभन्ते — एषोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति । अ-
नृतेन हि यथोक्तेन हि यस्मात् प्रत्यूढा: हृताः, स्वरूपाद-
विद्यादिदोषैर्बहिरपकृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते
जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्राय: ॥
स वा एष आत्मा हृदि तस्यैतदेव
निरुक्त५ हृद्ययमिति तस्माद्धृदयमहरह-
र्वा एवंवित्स्वर्ग लोकमेति ॥ ३ ॥
स वै यः ' आत्मापहतपाप्मा' इति प्रकृतः, वै-शब्देन तं
स्मारयति । एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके
आकाशशब्देनाभिहितः । तस्य एतस्य हृदयस्य एतदेव
निरुक्तं निर्वचनम्, नान्यत् । हृदि अयमात्मा वर्तत इति
यस्मात्, तस्माद्धृदयम्, हृदयनामनिर्वचनप्रसिद्धयापि स्वह-
दये आत्मेत्यवगन्तव्यमित्यभिप्रायः । अहरहवें प्रत्यहम् एवंवित्
हृदि अयमात्मेति जानन् स्वर्गे लोकं हार्द ब्रह्म एति प्रतिप--
द्यते । ननु अनेवंविदपि सुषुप्तकाले हार्द ब्रह्म प्रतिपद्यते एव,