Proofing

This page has not been fully proofread.

३.]
 
अष्टमोऽध्यायः ।
 
४८५.
 
अथ ये चास्येह जीवा ये च प्रेता य-
च्चान्यदिच्छन्न लभते सर्व तदव गत्वा
विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृता-
पिधानास्तद्यथापि हिरण्यनिधिं निहि-
तमक्षेत्रज्ञा उपर्युपरि संचरन्तो नवि-
न्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छ-
न्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि
प्रत्यूढाः ॥ २ ॥
 
अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह
पुत्राः भ्रातादयो वा, ये च प्रेताः मृताः इष्टा: संबन्धिनः,
यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नानि वा वस्त्विच्छन्
न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथो-
तेन विधिना विन्दते लभते । अत्र अस्मिन्हार्दाकाशे
हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृ-
तापिधानाः । कथमिव तदन्याय्यमिति, उच्यते - तत् तत्र
यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निघातृभिः
निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमेरघस्ता-
निक्षिप्तम् अक्षेत्रज्ञा: निधिशास्त्रैर्निधिक्षेत्रमजानन्तः ते निधेः