Proofing

This page has not been fully proofread.

तृतीयः खण्डः ॥
 
त इमे सत्याः कामा अनुतापिधाना-
स्तेषाँ सत्यानाँ सतामनृतमपिधानं
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय
लभते ॥ १ ॥
 
यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साह-
जननार्थमनुक्रोशन्त्याह — कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः
शक्यप्राप्या अपि त इमे सत्याः कामा: अनृतापिधानाः,
तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु
स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्र-
चारत्वं मिध्याज्ञाननिमित्तत्वादनृतमित्युच्यते । तन्निमित्तं
सत्यानां कामानामप्राप्तिरिति अपिधानमिवापिधानम् । क-
थमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते — यो यो
हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लो-
कात् प्रैति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा
स्वहृदयाकाशे विद्यमानमपि इह पुनर्दर्शनायेच्छन्नपि न
लभते ॥
 
-