Proofing

This page has not been fully proofread.

२.]
 
अष्टमोऽध्यायः ।
 
४८३
 
त्तिष्ठतस्तेन गीतवादित्रलोकेन संपन्नो
 
महीयते ॥ ८ ॥
 
अथ यदि स्त्रीलोककामो भवति संक-
ल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन
स्त्रीलोकेन संपन्नो महीयते ॥ ९ ॥
 
समानमन्यत् । मातरो जनयित्र्यः अतीताः सुखहेतु-
भूता: सामर्थ्यात् । न हि दुःखहेतुभूतासु ग्रामसूकरादिज-
न्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिनः इच्छा तत्सं-
बन्धो वा युक्तः ॥
 
यं यमन्तमभिकामो भवति यं कामं
कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति
तेन संपन्नो महीयते ॥ १० ॥
 
इति द्वितीयः खण्डः ॥
 
यं यमन्तं प्रदेशमभिकामो भवति, यं च कामं काम-
यते यथोक्तव्यतिरेकेणापि, सः अस्यान्तः प्राप्तुमिष्टः कामश्च
संकल्पादेव समुत्तिष्ठत्यस्य । तेन इच्छाविघाततया अभि-
प्रेतार्थप्राप्त्या च संपन्नो महीयते इत्युक्तार्थम् ॥
 
इति द्वितीयखण्डभाष्यम् ॥