Proofing

This page has not been fully proofread.

द्वितीयः खण्डः ॥
 
स यदि पितृलोककामो भवति सं-
कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन
पितृलोकेन संपन्नो महीयते ॥ १ ॥
 
कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते - य
आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्यमाणत्रा-
चर्यादिसाधनसंपन्नः सन् तत्स्थांश्च सत्यान्कामान् ; स त्यक्त-
देह: यदि पितृलोककामः पितरो जनयितारः त एव सुख-
हेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तै:
पितृभिः संबन्धेच्छा यस्य भवति, तस्य संकल्पमात्रादेव
पितरः समुत्तिष्ठन्ति आत्मसंबन्धितामापद्यन्ते, विशुद्धस-
त्त्वतया सत्यसंकल्पत्वात् ईश्वरस्येव । तेन पितृलोकेन भोगेन
संपन्न: संपत्तिः इष्टप्राप्तिः तथा समृद्धः महीयते पूज्यते वर्धते
वा महिमानमनुभवति ॥
 
,
 
अथ यदि मातृलोककामो भवति सं-
कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन
मातृलोकेन संपन्नो महीयते ॥ २ ॥
 
अथ यदि भ्रातृलोककामो भवति सं-