2026-05-06 06:21:26 by ambuda-bot
This page has not been fully proofread.
४८०
छान्दोग्योपनिषद्भाष्ये
लोकेषु कामचारो भवति ॥ ६ ॥
इति प्रथमः खण्डः ॥
[ख.
अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः । तत्
तत्र यथा इह लोके . तासामेव स्वाम्यनुशासनानुवर्तिनीनां
प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते अन्त-
वान्भवति । अथ इदानीं दाष्टन्तिकमुपसंहरति — एवमेव
अमुत्र अग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षी-
यत एवेति । उक्तः दोषः एषामिति विषयं दर्शयति — तय
इत्यादिना । तत् तत्र ये इह अस्मिँल्लोके ज्ञानकर्मणोरधिकृताः
योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टम-
ननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहाद-
स्मात्प्रयन्ति य एतांश्च यथोक्तान् सत्यान् सत्यसंकल्पका-
व स्वात्मस्थान्कामान अननुविद्य व्रजन्ति तेषां सर्वेषु
लोकेषु अकामचारः अस्वतन्त्रता भवति — यथा राजानुशा-
सनानुवर्तिनीनां प्रजानामित्यर्थः । अथ ये अन्ये इह लोके
आत्मानं शास्त्राचार्योपदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य
व्रजन्ति यथोक्तांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु का-
मचारो भवति – राज्ञ इव सार्वभौमस्य इह लोके ॥
- -
इति प्रथमखण्डभाष्यम्