Proofing

This page has not been fully proofread.

४७८
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा ।
तथा विजर: विगतजरः विमृत्युश्च । तदुक्तं पूर्वमेव न वधे-
नास्य हन्यत इति ; किमर्थे पुनरुच्यते ? यद्यपि देहसंबन्धि-
भ्यां जरामृत्युभ्यां न संबध्यते, अन्यथापि संबन्धस्ताभ्यां
स्यादित्याशङ्कानिवृत्यर्थम् । विशोकः विगतशोकः । शोको
नाम इष्टादिवियोगनिमित्तो मानसः संतापः । विजिघत्सः
विगताशनेच्छः । अपिपास: अपानेच्छः । ननु अपहतपाप्म-
त्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति, कारण-
प्रतिषेधात् । धर्माधर्मकार्या हि ते इति । जरादिप्रतिषेधेन
वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्य सत्समत्वभिति
पृथक्प्रतिषेधोऽनर्थकः स्यात् । सत्यमेवम्, तथापि धर्मकार्या-
नन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे, 'विज्ञानमानन्दं
ब्रह्म' इति श्रुतेः, तथा अधर्मकार्यजरादिव्यतिरेकेणापि
जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्कयेत । अतः
युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः ।
जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् । पापनिमित्तानां तु
दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्य अशक्यत्वात् सर्व-
दुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् । सत्याः अवि-
तथा: कामाः यस्य सोऽयं सत्यकामः । वितथा हि संसा-