2026-05-06 06:21:25 by ambuda-bot
This page has not been fully proofread.
१.]
अष्टमोऽध्यायः ।
४७७
जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥
एवमन्तेवासिभिचोदितः स आचार्यो ब्रूयात् तन्मतिम-
पनयन् । कथम् ? अस्य देहस्य जरया एतत् यथोक्तमन्तरा -
काशाख्यं ब्रह्म यस्मिन्सर्वे समाहितं न जीर्यति देहवन्न
विक्रियत इत्यर्थः । न च अस्य वधेन शस्त्रादिघातेन एतद्ध-
न्यते, यथा आकाशम् ; किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्श
ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्यर्थः । कथं देहेन्द्रिया-
दिदोषैर्न स्पृश्यत इति एतस्मिन्नवसरे वक्तव्यं प्राप्तम्, तत्प्र-
कृतव्यासङ्गो मा भूदिति नोच्यते । इन्द्रविरोचनाख्यायिका-
यामुपरिष्टाद्वक्ष्यामो युक्तित: । एतत्सत्यमवितथं ब्रह्मपुरं
ब्रह्मैव पुरं ब्रह्मपुरम्; शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणा-
र्थत्वात् । तत्तु अनृतमेव, 'वाचारम्भणं विकारो नामधेयम्'
इति श्रुते: । तद्विकारे अनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत
इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् । सत्यं तु ब्रह्मपुरमेत-
देव ब्रह्म, सर्वव्यवहारास्पदत्वात् । अतः अस्मिन्पुण्डरीको-
पलक्षिते ब्रह्मपुरे सर्वे कामा:, ये बहिर्भवद्भिः प्रार्थ्यन्ते, ते
अस्मिन्नेव स्वात्मनि समाहिताः । अतः तत्प्राप्त्युपायमेवा-
नुतिष्ठत, बाह्यविषयतृष्णां त्यजत इत्यभिप्रायः । एष आत्मा
भवतां स्वरूपम् । शृणुत तस्य लक्षणम् - अपहृतपाप्मा,