Proofing

This page has not been fully proofread.

२००
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
पभोगे पापानुबन्धाभाव:, आ च गच्छेयुः आगच्छेयुच,
उप च निम्रेडेरन् उपनिम्रेडेरंश्व न केवलमागमनमात्रं
घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः । द्विर-
भ्यासः अध्यायपरिसमात्यर्थः आदरार्थश्च ॥
 
इति एकोनविंशखण्डभाष्यम् ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
छान्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः
 
समाप्तः ॥