Proofing

This page has not been fully proofread.

१९.]
 
तृतीयोऽध्यायः ।
 
१९९
 
अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः ;
तमादित्यं जायमानं घोषाः शब्दाः उलूलव: उरूरवो विस्ती-
र्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथमपुत्रजन्मनि
सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां
कामाः काम्यन्त इति विषयाः स्त्रीवस्त्रान्नादय: । यस्मादा-
दित्यजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्या-
दित्यस्योदयं प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा
पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः ;
सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानुति-
ष्ठन्ति । प्रसिद्धं हि एतदुदयादौ सवितुः ॥
 
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपा-
स्तेऽभ्याशो ह यदेन साधवो घोषा आ
च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥
इति एकोनविंशः खण्डः ॥
 
स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आ-
दित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः । किंच दृष्टं
फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम्, एन-
मेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदु-