2026-05-06 05:53:29 by ambuda-bot
This page has not been fully proofread.
१९८
छान्दोग्योपनिषद्भाष्ये
तद्यद्रजत सेयं पृथिवी यत्सुवर्ण
सा द्यौर्यजरायु ते पर्वता यदुल्ब समेघो
नीहारो या धमनयस्ता नद्यो यद्वास्तेय-
मुदकस समुद्रः ॥ २ ॥
[ख.
तत् तयोः कपालयोः यद्रजतं कपालमासीत्, सेयं पृथि-
बी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः । यत्सुवर्ण कपा-
लं सा द्यौः लोकोपलश्नितमूर्ध्वं कपालमित्यर्थः । यज्जरायु
गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत्, ते
पर्वता बभूवुः । यदुवं सूक्ष्मं गर्भपरिवेष्टनम्, तत् सह मेधैः
समेघः नीहारोऽवश्यायः वभूवेत्यर्थः । या गर्भस्य जातस्य
देहे धमनयः शिराः, तानद्यो बभूवुः । यत् तस्य वस्तौ भवं
वास्तेयमुदकम्, स समुद्रः ॥
अथ यत्तदजायत सोऽसावादित्यस्तं
जायमानं घोषा उलूलवोऽनुदतिष्ठन्सर्वा
णि च भूतानि सर्वे च कामास्तस्मात्त-
स्योदयं प्रति प्रत्यायनं प्रति घोषा उलूल-
वोsनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे
च कामाः ॥ ३ ॥