Proofing

This page has not been fully proofread.

१९.]
 
तृतीयोऽध्यायः ।
 
१९७
 
रूपाभावमवधारयति ; नामरूपव्याकृतविषये सच्छन्द प्रयोगो
दृष्टः । तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगत: ।
तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किंचन इत्यतः
तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौ-
ति ब्रह्मदृष्टथर्हत्वाय; आदित्यनिभित्तो हि लोके सदिति व्य-
वहारः-
:- यथा असदेवेदं राज्ञः कुलं सर्वगुणसंपन्ने पूर्णव-
मणि राजन्यस्तीति तद्वत् । न च सत्त्वमसत्त्वं वा इह
जगत: प्रतिपिपादयिषितम्, आदित्यो ब्रह्मेत्यादेशपरत्वात् ।
उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति । तत्सदासीत्
तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमस -
दिव सत्कार्याभिमुखम् ईषदुपजातप्रवृत्ति सदासीत् ; ततो ल-
व्धपरिस्पन्दं तत्समभवत् अल्पतरनामरूपव्याकरणेन अङ्कुरी-
भूतमिव बीजम् । ततोऽपि क्रमेण स्थूलीभवत् अद्भ्यः आण्डं
समवर्तत संवृत्तम् । आण्डमिति दैर्घ्य छान्दसम् । तदण्डं
संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम् अभिन्न-
स्वरूपमेव अशयत स्थितं बभूव । तत् ततः संवत्सरपरिमा-
णात्कालादूर्ध्वं निरभिद्यत निर्भिन्नम् – वयसामिवाण्डम् ।
तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां
संवृत्ते ॥
 
S. U. III. 24